अथ व्योमवर्गः


श्लोकाः
द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम्
नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम्
वियद् विष्णुपदं वा तु पुंस्याकाशविहायसी
विहासयोऽपि नाकोऽपि द्युरपि स्यात् तदव्ययम्
तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम्
विहायाः शकुने पुंसि गगने पुंनपुंसकम्