ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती |
व्याहार उक्तिर्लपितं भाषितं वचनं वचः |
अपभ्रंशोऽपशब्दः स्याच्छास्त्रे शब्दस्तु वाचकः |
तिङ्सुबन्तचयो वाक्यं क्रिया वा कारकान्विता |
श्रुतिः स्त्री वेद आम्नायस्त्रयी धर्मस्तु तद्विधिः |
स्त्रियामृक्सामयजुषी इति वेदास्त्रयस्त्रयी |
शिक्षेत्यादि श्रुतेरङ्गमोङ्कारप्रणवौ समौ |
इतिहासः पुरावृत्तमुदात्ताद्यास्त्रयः स्वराः |
आन्वीक्षिकी दण्डनीतिस्तर्कविद्यार्थशास्त्रयोः |
आख्यायिकोपलब्धार्था पुराणं पञ्चलक्षणम् |
प्रबन्धकल्पना कथा प्रवह्लिका प्रहेलिका |
स्मृतिस्तु धर्मसंहिता समाहृतिस्तु संग्रहः |
समस्या तु समासार्था किंवदन्ती जनश्रुतिः |
वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यादथाह्वयः |
आख्याह्वे अभिधानं च नामधेयं च नाम च |
हूतिराकारणाह्वानं संहूतिर्बहुभिः कृता |
विवादो व्यवहारः स्यादुपन्यासस्तु वाङ्मुखम् |
उपोद्धात उदाहारः शपनं शपथः पुमान् |
प्रश्नोऽनुयोगः पृच्छा च प्रतिवाक्योत्तरे समे |
मिथ्याभियोगोऽभ्याख्यानमथ मिथ्याभिशंसनम् |
अभिशापः प्रणादस्तु शब्दः स्यादनुरागजः |
यशः कीर्तिः समज्ञा च स्तवः स्तोत्रं स्तुतिर्नुतिः |
आम्रेडितं द्विस्त्रिरुक्तमुच्चैर्घुष्टं तु घोषणा |
काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः |
अवर्णाक्षेपनिर्वादपरीवादापवादवत्. |
उपक्रोशो जुगुप्सा च कुत्सा निन्दा च गर्हणे |
पारुष्यमतिवादः स्याद्भर्त्सनं त्वपकारगीः |
यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम् |
तत्र त्वाक्षारणा यः स्यादाक्रोशो मैथुनं प्रति |
स्यादाभाषणमालापः प्रलापोऽनर्थकं वचः |
अनुलापो मुहुर्भाषा विलापः परिदेवनम् |
विप्रलापो विरोधोक्तिः संलापो भाषणं मिथः |
सुप्रलापः सुवचनमपलापस्तु निह्नवः |
चोद्यमाक्षेपाभियोगौ शापाक्रोशौ दुरेषणा |
अस्त्री चाटु चटु श्लाघा प्रेम्णा मिथ्याविकत्थनम् |
सन्देशवाग्वाचिकं स्याद्वाग्भेदास्तु त्रिषूत्तरे |
रुशती वागकल्याणी स्यात्कल्या तु शुभात्मिका |
अत्यर्थमधुरं सान्त्वं संगतं हृदयङ्गमम् |
निष्ठुरं परुषं ग्राम्यमश्लीलं सूनृतं प्रिये |
सत्येऽथ संकुलक्लिष्टे परस्परपराहते |
लुप्तवर्णपदं ग्रस्तं निरस्तं त्वरितोदितम् |
जम्बूकृतं सनिष्टीवमबद्धं स्यादनर्थकम् |
अनक्षरमवाच्यं स्यादाहतं तु मृषार्थकम् |
सोल्लुठनं तु सोत्प्रासं मणितं रतिकूजितम् |
श्राव्यं हृद्यं मनोहारि विस्पष्टं प्रकटोदितम् |
अथ म्लिष्टमविस्पष्टं वितथं त्वनृतं वचः |
सत्यं तथ्यमृतं सम्यगमूनि त्रिषु तद्वति |