अथ शब्दादिवर्गः


श्लोकाः
शब्दे निनादनिनदध्वनिध्वानरवस्वनाः
स्वाननिर्घोषनिर्ह्रादनादनिस्वाननिस्वनाः
आरवाऽऽरावसंरावविरावा अथ मर्मरः
स्वनिते वस्त्रपर्णानां भूषणानां तु शिञ्जितम्
निक्वाणो निक्वणः क्वाणः क्वणः क्वणनमित्यपि
वीणायाः क्वणिते प्रादेः प्रक्वाणप्रक्वणादयः
कोलाहलः कलकलस्तिरश्चां वाशितं रुतम्
स्त्री प्रतिश्रुत्प्रतिध्वाने गीतं गानमिमे समे