अथ नरकवर्गः


श्लोकाः
स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम्
तद्भेदास्तपनाऽवीचिमहारौरवरौरवाः
संघातः कालसूत्रं चेत्याद्याः सत्त्वास्तु नारकाः
प्रेता वैतरणी सिन्धुः स्यादलक्ष्मीस्तु निरृतिः
विष्टिराजूः कारणा तु यातना तीव्रवेदना
पीडा बाधा व्यथा दुःखमामनस्यं प्रसूतिजम्
स्यात्कष्टं कृच्छ्रमाभीलं त्रिष्वेषां भेद्यगामि यत्
समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः
उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः
रत्नाकरो जलनिधिर्यादःपतिरपाम्पतिः
तस्य प्रभेदाः क्षीरोदो लवणोदस्तथाऽपरे
आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलम्
पयः कीलालममृतं जीवनं भुवनं वनम्
कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम्