श्रीमदमरसिंहविरचितः अमरकोशः
मङ्गलाचरणम् - यस्य ज्ञानदयासिन्धोरगाधस्यानघा गुणाः ।
सेव्यतामक्षयो धीराः स *श्रियै चामृताय च ॥ (पाठ. श्रिये)
प्रस्तावना - समाहृत्यान्यतन्त्राणि सङ्क्षिप्तैः प्रतिसंस्कृतैः ।
सम्पूर्णमुच्यते वर्गैर्नामलिङ्गानुशासनम् ॥
प्रायशो रूपभेदेन साहचर्याच्च कुत्रचित् ।
स्त्रीपुन्नपुंसकं ज्ञेयं तद्विशेषविधेः क्वचित् ॥
भेदाख्यानाय न द्वन्द्वो नैकशेषो न सङ्करः ।
कृतोऽत्र भिन्नलिङ्गानामनुक्तानां क्रमादृते ॥
त्रिलिङ्ग्यां त्रिष्विति पदं मिथुने तु द्वयोरिति ।
निषिद्धलिङ्गं शेषार्थं त्वन्ताथादि न पूर्वभाक् ॥
प्रथमकाण्डः
द्वितीयकाण्डः
तृतीयकाण्डः
मुख्यपृष्टम्